Monday, July 24, 2017

🎯लक्ष्यवेध संस्कृत अकॅडमी: ... शिष्टाचार:...

🎯लक्ष्यवेध संस्कृत अकॅडमी–

   शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्]

हरिः ॐ ! = Hello !
सुप्रभातम् |* = Good morning.
नमस्कारः/नमस्ते । = Good afternoon/Good evening.
शुभरात्रिः । = Good night.
धन्यवादः । = Thank You.
स्वागतम् । = Welcome.
क्षम्यताम् । = Excuse/Pardon me.
चिन्ता मास्तु । = Dont worry.
कृपया । = Please.
पुनः मिलामः । = Let us meet again.
अस्तु । = All right./O.K.
श्रीमन् । = Sir.
मान्ये/आर्ये । = Lady.
साधु साधु/समीचीनम् । = Very good.
मेलनम् ( Meeting )[सम्पाद्यताम्]
भवतः नाम किम् ? = What is your name? (masc.)
भवत्याः नाम किम् ? = What is your name? (fem.)
मम नाम ‌.....। = My name is .....
एषः मम मित्रं .....। = This is my friend .....
एतेषां विषये श्रुतवान् = I have heard of them
एषा मम सखी .....। = This is my friend ..... (fem.).
भवान् किं (उद्योगं) करोति ? = What do you do? (masc.)
भवती किं (उद्योगं) करोति? = What do you do? (fem.)
अहं अध्यापकः अस्मि । = I am a teacher (masc.)
अहम अध्यापिका अस्मि । = I am a teacher.(fem.)
अधिकारी/अधिकारिणी = Officer;
टङ्कलेखकः/टङ्कलेखिका = Typist
तंत्रज्ञः/तन्त्रज्ञा = Engineer;
प्राध्यापकः/प्राध्यापिका = Professor
लिपिकः/लिपिका = Clerk
न्यायवादी/न्यायवादिनी = lawyer
विक्रयिकः/विक्रयिका = Salesman;
व्याख्याता/व्याख्यात्री = Lecturer
अहं यन्त्रागारे कार्यं करोमि । = I work in a factory.
कार्यालये = in an office;
महाविद्यालये = in a college
वित्तकोषे = in a bank;
चिकित्सालये = in a hospital
माध्यमिकशालायां = in a high school;
यन्त्रागारे = in a factory
भवान्/भवती कस्यां कक्ष्यायां पठति ? = Which class are you in?
अहं नवमकक्ष्यायां पठामि । = I am in Std.IX.
अहं .कक्ष्यायां पठामि । = I am in I/II/III/B.Sc. class.
भवतः ग्रामः ? = Where are you from?
मम ग्रामः .....। = I am from .....
कुशलं वा ? = How are you ?
कथमस्ति भवान् ? = How are you ?
गृहे सर्वे कुशलिनः वा ? = Are all well at home?
सर्वं कुशलम् । = All is well.
कः विशेषः ? ( का वार्ता ?) = What news?
भवता एव वक्तव्यम् । = You have to say.
कोऽपि विशेषः ? = Anything special?
भवान् (भवती) कुतः आगच्छति ? = Where are you coming from?
अहं शालातः, गृहतः, ...तः = I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ? = Where are you going?
भवति वा इति पश्यामः । = Let us see if it can be done.
ज्ञातं वा ? = Understand ?
कथं आसीत् ? = How was it?
अङ्गीकृतं किल ? = Agreed?
कति अपेक्षितानि ? = How many do you want?
अद्य एव वा ? = Is it today?
इदानीं एव वा ? = Is it going to be now?
आगन्तव्यं भोः । = Please do come.
तदर्थं वा ? = Is it for that ?
तत् किमपि मास्तु । = Don't want that.
न दृश्यते ? = Can't you see?
समाप्तं वा ? = Is it over?
कस्मिन् समये ? = At what time?
तथापि = even then
आवश्यकं न आसीत् । = It was not necessary.
तिष्ठतु भोः । = Be here for some more time.
स्मरति किल ? = Remember, don't you?
तथा किमपि नास्ति । = No, it is not so.
कथं अस्ति भवान् ? = How are you?
न विस्मरतु । = Don't forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ? = Is it only so much?
महान् सन्तोषः । = Very happy about it.
तत् तथा न ? = Is it not so?
तस्य कः अर्थः ? = What does it mean?
आं भोः । = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि । = I am going to temple/office/market.
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान्। = I remember to have seen you somewhere.
भवान् सम्भाषणशिबिरं आगतवान् वा ? = Have you come to the conversation camp ?
ध्यातव्यं: Note:
शब्दाः 'भवान्/भवती' is used for the convenience of Samskrita conversation learning.
The verb used for 'भवान्/भवती' is III Person Singular instead of II Person singular.
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
तर्हि तत्रैव दृष्टवान् |= I must have seen you there in that case.
सरल वाक्यानि (Simple sentenes)[सम्पाद्यताम्]
तथैव अस्तु । = Let it be so/so be it.
जानामि भोः । = I know it.
आम्, तत् सत्यम् । = Yes,that is right.
समीचीना सूचना । = A good suggestion indeed.
किञ्चित् एव । = A little.
किमर्थं तद् न भवति ? = Why can't that be done ?
भवतु नाम । = Leave it at that.
ओहो ! तथा वा ? = Oh! Is that so ?
एवमपि अस्ति वा ? = Is it like this ?
अथ किम् ? = Then ?
नैव किल ! = No
भवतु ! = Yes
आगच्छन्तु । = Come in.
उपविशन्तु । = Please sit down.
सर्वथा मास्तु । = Definitely no.
अस्तु वा ? = Can that be so ?
किमर्थं भोः ? = Why ?
प्राप्तं किल ? = You have got it, haven't you ?
सामान्य वाक्यानि (Ordinary sentences)[सम्पाद्यताम्]
प्रयत्नं करोमि । = I will try.
न शक्यते भोः । = No, I can't.
तथा न वदतु । = Don't say that.
तत्र कोऽपि सन्देहः नास्ति । = There is no doubt about it.
तद् अहं न ज्ञातवान् । = I didn't know that.
कदा ददाति ? = When are you going to give me ?
अहं कथं वदामि 'कदा इति' ? = How can I say when ?
तथा भवति वा ? = Can that be so ?
भवतः समयावकाशः अस्ति वा ? = Are you free ?
अद्य भवतः कार्यक्रमः कः ? = What are your programmes for today ?
अरे ! पादस्य / हस्तस्य किं अभवत् ? = Oh! What happened to your legs/arms?
बहुदिनेभ्यः ते परिचिताः। = I have known him for long ( shouldn't be'them' for 'him'? May be plural'te' is used for a VVIP))
तस्य कियद् धैर्यं/धार्ष्ट्यम् ? = How dare he is ?
भवान् न उक्तवान् एव । = You have not told me..
अहं किं करोमि ? = What can I do ?
अहं न जानामि । = I don't know.
यथा भवान् इच्छति तथा । = As you wish/say.
भवतु, चिन्तां न करोतु = Yes, don't bother.
तेन किमपि न सिध्यति । = There is no use/nothing hppenns on account of that.
सः सर्वथा अप्रयोजकः । = He is good for nothing.
पुनरपि एकवारं प्रयत्नं कुर्मः । = Let us try once more.
मौनमेव उचितम् । = Better be quiet.
तत्र अहं किमपि न वदामि । = I do not want to say anything in this regard/No comments, please/I must think before I say anything.
तर्हि समीचीनम् । = O.K. if that is so.
एवं चेत् कथम् ? = How then, if it is so ?
मां किञ्चित् स्मारयतु । = Please remind me.
तं अहं सम्यक् जानामि । = I know him well.
तदानीमेव उक्तवान् किल ? = Haven't I told you already ?
कदा उक्तवान् भोः ? = When did you say so ?
यत्किमपि भवतु । = Happen what may.
सः बहु समीचीनः = He is a good fellow.
सः बहु रूक्षः । = He is very rough.
तद्विषये चिन्ता मास्तु । = Don't worry about that.
तथैव इति न नियमः । = It is not like that.
कर्तुं शक्यं, किञ्चित् समयः अपेक्षते । = I/We can do it, but require time.
न्यूनातिन्यूनं एतावत् तु कृतवान् ! = At least he has done this much !
द्रष्टुं एव न शक्यते । = Can't see it.
तत्रैव कुत्रापि स्यात् । = It may be somewhere there.
यथार्थं वदामि । = I am telling the truth.
एवं भवितुं अर्हति । = This is O.K./all right.
कदाचित् एवमपि स्यात् । = It may be like this sometimes.
अहं तावदपि न जानामि वा ? = Don't I know that much ?
तत्र गत्वा किं करोति ? = What are you going to do there ?
पुनः आगच्छन्तु । = Come again.
मम किमपि क्लेशः नास्ति । = It is no trouble (to me).
एतद् कष्टं न । = This is not difficult.
भोः, आनीतवान् वा ? = Have you brought it ?
भवतः कृते कः उक्तवान् ? = Who told you this ?
किञ्चिदनन्तरं आगच्छेत् । = He/It may come sometime later.
प्रायः तथा न स्यात् । = By and large, it may not be so.
चिन्ता मास्तु, श्वः ददातु । = It is no bother, return it tomorrow.
अहं पुनः सूचयामि । = I will let you know.
अद्य आसीत् वा ? = Was it today ?
अवश्यं आगच्छामि । = Certainly, I will come.
नागराजः अस्ति वा ? = Is Nagaraj in ?
किमर्थं तत् एवं अभवत् ? = Why did it happen so ?
तत्र आसीत् वा ? = Was it there ?
किमपि उक्तवान् वा ? = Did you say anything ?
कुतः आनीतवान् ? = Where did you bring it from ?
अन्यत् कार्यं किमपि नास्ति । = Don't have any other work.
मम वचनं शृणोतु । = Please listen to me.
एतत् सत्यं किल ? = It is true, isn't it ?
तद् अहं अपि जानामि । = I know it myself.
तावद् आवश्यकं न । = It is not needed so badly.
भवतः का हानिः ? = What loss is it to you ?
किमर्थं एतावान् विलम्बः ? = Why are you late ?
यथेष्टं अस्ति । = Available in plenty.
भवतः अभिप्रायः कः ? = What do you say about it ?/What is your opinion ?
अस्य किं कारणम् ? = What is the reason for this ?
स्वयमेव करोति वा ? = Do you do it yourself ?
तत् न रोचते ? = I don't like it.
उक्तं एव वदति सः । = He has been repeating the same thing.
अन्यथा बहु कष्टम् । = It will be a big botheration if it is not so.
किमर्थं पूर्वं न उक्तवान् ? = Why didn't you say it earlier ?
स्पष्टं न जानामि । = Don't know exactly.
निश्चयः नास्ति । = Not sure.
कुत्र आसीत् भवान् ? = Where were you ?
भीतिः मास्तु । = Don't get frightened.
भयस्य कारणं नास्ति । = Not to fear.
तदहं बहु इच्छामि = I like that very much.
कियत् लज्जास्पदम् ? = What a shame ?
सः मम दोषः न । = It is not my fault.
मम तु आक्षेपः नास्ति । = I have no objection.
सः शीघ्रकोपी । = He is short-tempered.
तीव्रं मा परिगणयतु । = Don't take it seriously.
आगतः एषऽवराकः । = Camped here.(?)
युक्ते समये आगतवान् । = you have come at the right time.
बहु जल्पति भोः । = He talks too much.
एषा केवलं किंवदन्ती । = It is just gossip.
किमपि न भवति । = Nothing happens.
एवमेव आगतवान् । = Just came to call on you.
विना कारणं किमर्थं गन्तव्यम् ? = Why go there unnecessarily ?
भवतः वचनं सत्यम् । = You are right.
मम वचनं कः शृणोति ? = Who listens to me ?
तदा तद् न स्फुरितम् । = It did not flash me then.
किमर्थं तावती चिन्ता ? = Why so much botheration ?
भवतः किं कष्टं अस्ति ? = Tell me, what your trouble is ?
छे, एवं न भवितव्यं आसीत् । = Tsh, it should not have happened.
अन्यथा न चिन्तयतु । = Don't mistake me.
मित्र मिलनम् ( Meeting the friends )[सम्पाद्यताम्]
नमोनमः । = Good morning/afternoon/evening
किं भोः, दर्शनमेव नास्ति ! = Hello, didn't see you for long !
नैव, अत्रैव सञ्चरामि किल ! = No, I have been moving about right here !
किं भोः, वार्ता एव नास्ति ? = Hello, not to be seen for a long time !
किं भोः, एकं पत्रं अपि नास्ति ? = Hey, You haven't even written a letter !
वयं सर्वे विस्मृताः वा ? = You have forgotten us all, Haven't you ?
कथं विस्मरणं भवति भोः ? = How can I forget you ?
भवतः सङ्केतं एव न जानामि स्म। = I didn't know your address.
महाजनः संवृत्तः भवान् ! = you have become a big man !
भवान् एव वा ! दूरतः न ज्ञातम् । = Is it you ? I couldn't recognise you from a distance.
ह्यः भवन्तं स्मृतवान् । = I remembered you yesterday.
किं अत्र आगमनम् ? = What made you come here ?
अत्रैव किञ्चित् कार्यं अस्ति । = I have some work here.
त्वरितं कार्यं आसीत् | अतः आगतवान् । = I am here as I have some urgent work.
बहुकालतः प्रतीक्षां करोमि । = I have been waiting for you for a long time.
यानं न प्राप्तं, अत एव विलम्बः । = Could not get the bus,hence late.
आगच्छतु भोः, गृहं गच्छामः । = Come, let us go home.
इदानीं वा, समयः नास्ति भोः । = Now? No time, you know.
श्वः सायं मिलामः वा ? = Shall we meet tomorrow evening ?
अवश्यं तत्रैव आगच्छामि । = I'll come there without fail.
इदानीं कुत्र उद्योगः ? = Where do you work now ?
यन्त्राकारे उद्योगः । = I work in a factory.
ग्रामे अध्यापकः अस्मि । = I am a teacher in a village.
इदानीं कुत्र वासः ? = Where are you put up ?
एषः मम गृहसङ्केतः । = This is my address.
यानं आगतं, आगच्छामि । = Bus has come, bye, bye.
अस्तु, पुनः पश्यामः । = OK. Let us meet again.
पुनः अस्माकं मिलनं कदा ? = When shall we meet again ?
पुनः कदा मिलति भवान् ? = When are you going to meet me ? (again)
तद्दिने किमर्थं भवान् न आगतवान् ? = Why didn't you come that day ?
वयं आगतवन्तः एव । = We have already arrived.
भवतः समीपे संभाषणीयं अस्ति । = I have something to talk to you about.
भवान् अन्यथा गृहीतवान् । = You have mistaken me.
भवन्तं बहु प्रतीक्षितवान् । = I very much expected you.
बहुकालतः तस्य वार्ता एव नास्ति । = No news from him for days.
भवतः पत्रं इदानीं एव लब्धम् । = I have just received your letter.
किञ्चिद्दूरं अहमपि आगच्छामि । = I will walk with you for some distance.
मिलित्वा गच्छामः । = Let us go together.
तिष्ठतु भोः, अर्धार्धं काफी पिबामः । = Wait, let's have a by-two coffee (It appears to mean sharing one cup of coffee between two persons)
अस्तु, पिबामः । = Fine, let us have it.
स्थातुं समयः नास्ति । = No time to stay.
गमनात् अनुक्षणमेव पत्रं लिखतु । = Write as soon as you reach there.
पुनः कदाचित् पश्यामि । = Meet you again.
यदा कदा वा भवतु, अहं सिद्धः । = I am ready any day.
तेषां कृते मम शुभाशयान् निवेदयतु । = Convey my good wishes to them/*him(Only if that person is a VIP).
किं भोः, एवं वदति ? = Hey, why do you say so ?
किञ्चित् कालं तिष्ठतु । = Please wait for some time.
भवान् एव परिशीलयतु । = Think about it, yourself.
अत्र पत्रालयः कुत्र अस्ति ? = Where is the post office, here ?
कियद्दूरे अस्ति ? = How far is it ?
वित्तकोषः कियद्दूरे अस्ति ? = How far is the bank ?
किमर्थं एवं त्वरा (संभ्रमः) ? = Why so much of confusion ?
इतोऽपि समयः अस्ति किल ? = There is still time, isn't it ?
सर्वस्य अपि मितिः भवेत् । = There should be some limit for everything.
कियद् इति दातुं शक्यम् ? = How much can I give him ?
कस्मिन् समये प्रतीक्षणीयम् ? = When shall I expect ?
गृहे उपविश्य किं करोति ? = What are you going to do by sitting at home ?
भवतः परिचयः एव न लब्धः । = Could not recognize you.
किं भोः, बहु कृशः जातः ? = Hey, You have become very weak.
अवश्यं मम गृहं आगन्तव्यम् । = Please do call on us.
सः सर्वत्र दर्वीं चालयति । = He pokes his nose everywhere.
यथा भवान् इच्छति । = I am game for whatever you say.
परिहासाय उक्तवान् भोः । = I said it in fun, You know.
एषः भवतः अपराधः न । = It is not your fault.
नैव, चिन्ता नास्ति । = No, no trouble/botheration.
वयं इदानीं अन्यद्गृहे स्मः । = We live in a different home now/Changed our residence.
भवान् मम अपेक्षया ज्येष्ठः वा ? = Are you elder to me ?
ओहो, मम अपेक्षया कनिष्ठः वा ? = Younger to me, is it ?
भवान् विवाहितः वा ? = Are you married ?
नैव, इदानीमपि एकाकी । = No, still a bachelor.
भवतः पिता कुत्र कार्यं करोति ? = Where does your father work ?
सः वर्षद्वयात् पूर्वमेव निवृत्तः । = He retired two years ago.
सः वृद्धः इव भाति । = He looks aged.
भवन्तः सर्वे सहैव वसन्ति वा ? = Do all of you live together ?
नैव, सर्वे विभक्ताः = No, we live separately.
भवतः वयः कियत् ? = How old are you ?
भवन्तः कति सहोदराः ? = How many brothers are you ?
वयं आहत्य अष्टजनाः । = We are eight.
भवान् एव ज्येष्ठः वा ? = Are you the eldest ?
मम एकः अग्रजः अस्ति । = I have an elder brother.
सः इदानीमपि बालः । = He is still a boy.
भवतः अनुजायाः कति वर्षाणि ? = How old is your younger sister ?
भवान् मा ददातु, मा स्वीकरोतु । = Neither give, nor take anything.
अन्यं कमपि न पृच्छतु । = Don't ask anyone except me.
तर्हि सर्वं दायित्वं भवतः एव । = In that case the entire responsibility is yours.
सर्वत्र अग्रे सरति । = He takes the initiative in everything.
भवन्तं गृहे एव पश्यामि । = I will see you in your house.
सः निष्ठावान् । = He is very orthodox.
यावदहं प्रत्यागच्छामि, तावद् प्रतीक्षां करोतु । = Wait till I come.
द्वयोः एकः आगच्छतु । = Either of the two come.
तस्य कृते विषयः निवेदितः वा ? = Have you informed him about the news?
तस्य कृते सः अत्यन्तं प्रीतिपात्रम् । = He is closely related to him.
भवता एतद् न कर्तव्यम् । = You should not do this.
यदि सः स्यात्\.\.\. । = Had he been here...
अवश्यं आगन्तव्यं, न विस्मर्तव्यम् । = Don't forget, please do come.
कियत् कालं तिष्ठति ? = How long will you be here?
एषा वार्ता मम कर्णमपि आगता । = I have heard of this news.
सः स्तोकात् मुक्तः । = He escaped narrowly.
भवन्तं द्रष्टुं सः पुनः आगच्छति किल ? = He is going to come back to see you. Isn't he ?
अहं किमर्थं असत्यं वदामि ? = Why should I tell a lie ?
भवान् अपि एवं वदति वा ? = Of all the people are you going to say this ?
भवान् एवं कर्तुं अर्हति वा ? = Can you do this ?
भवान् गच्छतु, मम किञ्चित् कार्यं अस्ति । = You proceed, I have some work.
वृथा भवान् चिन्तां करोति । = You just worry unnecessarily.
दैवेच्छा तदा आसीत्, किं कुर्मः ? = It was God's will. What shall we do ?
अहं अन्यद् उक्तवान्, भवान् अन्यद् गृहीतवान् । = I told you one thing. You understood it differently.
एतावद् अनृतं वदति इति न ज्ञातवान् । = I never expected that he would tell a lie.
प्रमादतः संवृत्तम्, न तु बुद्ध्या । = I did not do it purposely. It was just accidental.
एषः एकः शनिः । = This fellow is a bugbear.
भवदुक्तं सर्वमपि अङ्गीकर्तुं न शक्यम् । = I cannot agree with all you say.
अहं गन्तुं न शक्नोमि । = I cannot go.
विषयस्य वर्धनं मास्तु । = Don't escalate the matter.
सर्वेऽपि पलायनशीलाः । = All these fellows take to their heels in the face of danger.
असम्बद्धं मा प्रलपतु । = Don't talk foolishly.
सर्वस्य अपि भवान् एव मूलम् । = You are the root cause of all these.
सुलभेन तस्य जाले पतितवान् । = He fell into his trap easily.
अस्माकं मिलनानन्तरं बहु कालः अतीतः । = It is a long time since we met.
इदानीं आगन्तुं न शक्यते । = I cannot come now.
भवान् अपि अङ्गीकरोति वा ? = Do you agree ?
भवान् अपि विश्वासं कृतवान् ? = Did you believe that ?
सः विश्वासयोग्यो वा ? = Is he trustworthy ?
किञ्चित् साहाय्यं करोति वा ? = Would you mind helping me a bit ?
समयः कथं अतिशीघ्रं अतीतः ! = How quickly the time passed !
युक्ते समये आगतवान् । = You have come at the right time.
एक निमेषं विलम्बः चेत् अहं गच्छामि स्म । = I would have left if you were late by a minute.
अहमपि भवता सह आगच्छामि वा ? = Shall I come with you ?
किञ्चित् कालं द्विचक्रिकां ददाति वा ? = Would you mind lending me your bicycle for a few minutes ?
इदानीं मया अपि अन्यत्र गन्तव्यम् । = I have to go somewhere now.
भवान् स्वकार्यं पश्यतु । = You mind your business.
शीघ्रं प्रत्यागच्छामि । = I'll be back in a short while.
आवश्यकं चेत् श्वः आनयामि । = If you want it, I shall bring it tomorow.
मास्तु  इत्युक्तेऽपि सः न शृणोति । = I said no,but he doesn't listen to me.





 प्रातिपदिक

 (नाम,सर्वनाम,विशेषण  (अव्यय,निपात,उपसर्ग) अव्ययाद् आप्सुपः
धातु+कृत् = प्रातिपदिक
प्रातिपदिक + तद्धित = प्रातिपदिक
पद+पद = समास ( प्रातिपदिक )
धातु ( औपदेशिक, सानादिक )
उपदेश - धातु, प्रातिपदिक, प्रत्यय, आदेश , आगम आदि
( सप्रयोजनः सानुबन्धः उपदेशः)
उपदेशेऽजनुनासिक इत्
एधँ॒ वृद्धौ । अँ॒   अनुदात्तः अतः एषः आत्मनेभाषः  ( एधते )
पठँ  व्यक्तायां वाचि । अ उदात्तः अतः एषः परस्मैभाषः ( पठति )
(डु) पचँ॑ (ष्)  पाके । अँ॑ स्वरितः अतः एषः उभयतोभाषः ( पचते , पचति )
एवम् उपग्रह-व्यवस्था विज्ञेया पाणिनीय-व्याकरणे
(आचार्य धनञ्जय शास्त्री जातवेदा: )
Facebook

No comments:

Post a Comment