लक्ष्यवेध संस्कृत अकॅडमी‚ नांदेड.
#Lakshyavedh_Sanskrit_Academy_Nanded #Sandeep_paitwar #PaitwarSir #sanskritGrammar # Sanskrit_grammar #EasySanskritGrammar #Sanskrit_Amodah #LearnSanskrit #संस्कृतव्याकरणम् #संस्कृतभाषा #१०वी_ संस्कृत_ महाराष्ट्रराज्य _बोर्ड #संस्कृतनिबंध #SanskritEssay
Sunday, March 24, 2024
Monday, October 30, 2023
रघुवंशे महाकाव्ये प्रथम: सर्ग:
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।
जगत: पितरौ वन्दे पार्वतीपरमेश्वरौ ॥१॥
क्व सूर्यप्रभवो वंश: क्व चाल्पविषया मति: ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥२॥
मन्द: कवियश: प्रार्थी गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामन: ॥३॥
अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभि: ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गति: ॥४॥
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवत्र्मनाम् ॥५॥
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् ।
यथापराथदण्डानां यथाकालप्रबोधिनाम् ॥६॥
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥७॥
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥८॥
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् ।
तद्गुणै: कर्णमागत्य चापलाय प्रचोदित: ॥९॥
तं सन्त: श्रोतुमर्हन्ति सदसद्वयक्तिहेतव: ।
हेम्न: संलक्ष्यते ह्यग्नौ विशुद्धि: श्यामिकाऽपि वा ॥१०॥
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् ।
आसीन्महीक्षितामाद्य: प्रणवश्छन्दसामिव ॥११॥
तदन्वये शुद्धिमति प्रसूत: शुद्धिमत्तर: ।
दिलीप इति राजेन्दुरिन्दु: क्षीरनिधाविव ॥१२॥
व्यूढोरस्को वृषस्कन्ध: शालप्रांशुर्महाभुज: ।
आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रित: ॥१३॥
सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना ।
स्थित: सर्वोन्नतेनोर्वीं क्रान्त्वा मेरूरिवात्मना ॥१४॥
आकारसदृशप्रज्ञ: प्रज्ञया सदृशागम: ।
आगमै: सदृशारम्भ आरम्भसदृशोदय: ॥१५॥
भीमकान्तैर्नृपगुणै: स बभूवोपजीविनाम् ।
अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णव: ॥१६॥
रेखामात्रमपि क्षुण्णादा मनोर्वत्र्मन: परम् ।
न व्यतीयु: प्रजास्तस्य नियन्तुर्नेमिवृत्तय: ॥१७॥
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रवि: ॥१८॥
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥१९॥
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च ।
फलानुमेया: प्रारम्भा: संस्कारा: प्राक्तना इव ॥२०॥
जुगोपात्मानमत्रस्त: भेजे धर्ममनातुर: ।
अगृद्ग्नुराददे सोऽर्थमसक्त: सुखमन्वभूत् ॥२१॥
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्यय: ।
गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥२२॥
अनाकृष्टस्य विषयैर्विद्यानां प्रारदृश्वन: ।
तस्य धर्मरतेरासीद्वâद्धत्वं जरसा विना ॥२३॥
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं जन्महेतव: ॥२४॥
स्थित्यै दण्डयतो दण्ड्यान्परिणेतु: प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिण: ॥२५॥
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् ।
सम्पद्विनियमेनोभौ दधतुर्भुवनद्वयम् ॥२६॥
न किलानुनयुस्तस्य राजानो रक्षितुर्यश: ।
व्यावृत्ता यत्परस्वेभ्य: श्रुतौ तस्करता स्थिता ॥२७॥
द्वेष्योऽपि सम्मत: शिष्टस्तस्यार्तस्य यथौषधम् ।
त्याज्यो दुष्ट: प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥२८॥
तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्वे तस्यासन्परार्थैकफला गुणा: ॥२९॥
स वेलावप्रवलयां परिखीकृतसागराम् ।
अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥३०॥
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा ।
पत्नी सुदक्षिणेत्यासीदध्वरस्येव दक्षिणा ॥३१॥
कलत्रवन्तमात्मानमवरोधे महत्यपि ।
तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिप: ॥३२॥
तस्यामात्मानुरूपायामात्मजन्मसमुत्सुक: ।
विलम्बितफलै: कालं स निनाय मनोरथै: ॥३३॥
सन्तानार्थाय विधये स्वभुजादवतारिता ।
तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥३४॥
अथाभ्यर्च विधातारं प्रयतौ पुत्रकामया ।
तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम् ॥३५॥
स्निग्धगम्भीरनिर्घोषमेकं स्यन्दनमाश्रितौ ।
प्रावृषेण्यं पयोवाहं विद्युदैरारताविव ॥३६॥
मा भूदाश्रमपीडेति परिमेयपुरस्सरौ ।
अनुभावविशेषात्तु सेनापरिवृताविव ॥३७॥
सेव्यमानौ सुखस्पर्शै: शालनिर्यासगन्धिभि: ।
पुष्परेणूत्किरैर्वातैराधूतवनराजिभि: ॥३८॥
मनोभिरामा: शृण्वन्तौ रथनेमिस्वनोन्मुखै: ।
षड्जसंवादिनी: केका द्विधा भिन्ना: शिखण्डिभि: ॥३९॥
परस्पराक्षिसादृश्यमदूरोज्झितवत्र्मसु ।
मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥
श्रेणीबन्धाद्वितन्व»िरस्तम्भां तोरण+जम् ।
सारसै: कलनिर्हादै: क्वचिदुन्नमिताननौ ॥४१॥
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिन: ।
रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
आमोदमुपजिघ्रन्तौ स्वनि:श्वासानुकारिणम् ॥४३॥
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् ।
अमोघा: प्रतिगृह्णन्तावघ्र्यानुपदमाशिष: ॥४४॥
हैयङ्गवीनमादाय घोषवृद्धानुपस्थितान् ।
नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥
काप्यभिख्या तयोरासीद्व्रजतो: शुद्धवेषयो: ।
हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥४६॥
तत्तद्भूमिपति: पत्न्यै दर्शयन्प्रियदर्शन: ।
अपि लङ्घितमध्वानं बुबुधे न बुधोपम: ॥४७॥
स दुष्प्रापयशा: प्रापदाश्रमं श्रान्तवाहन: ।
सायं संयमिनस्तस्य महर्षेर्महिषीसख: ॥४८॥
वनान्तरादुपावृत्तै: समित्कुशफलाहरै: ।
पूर्यमाणमदृश्याग्निप्रत्युद्यात्यैस्तपस्विभि: ॥४९॥
आकीर्णमृषिपत्नीनामुटजद्वाररोधिभि: ।
अपत्यैरिव नीवारभागधेयोचितैर्मृगै: ॥५०॥
सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम् ।
विश्वासाय विहङ्गानामालवालाम्बुपायिनम् ॥५१॥
आतपात्ययसंक्षिप्तनीवारासु निषादिभि: ।
मृगैर्वर्तितरोमन्थमुटजाङ्गनभूमिषु ॥५२॥
अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
पुनानं पवनोद्धूतैर्धूमैराहुतिगन्धिभि: ॥५३॥
अथ यन्तारमादिश्य धुर्यान्विश्रामयेति स: ।
तामवारोहयत्पत्नीं रथादवततार च ॥५४॥
तस्मै सभ्या: सभार्याय गोप्त्रे गुप्ततमेन्द्रिया: ।
अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥
विधे: सायन्तनस्यान्ते स ददर्श तपोनिधिम् ।
अन्वासितम,न्धत्या स्वाहयेव हविर्भुजम् ॥५६॥
तयोर्जगृहतु: पादान्राजा राज्ञी च मागधी ।
तौ गुरूर्गुरूपत्नी च प्रीत्या प्रतिननन्दतु: ॥५७॥
तमातिथ्यक्रियाशान्तरथक्षोभपरिश्रमम् ।
पप्रच्छ कुशलं राज्ये राज्याश्रममुनिं मुनि: ॥५८॥
अथाथर्वनिधेस्तस्य विजितारिपुर: पुर: ।
अथ्र्यामर्थपतिर्वाचमाददे वदतां वर: ॥५९॥
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥६०॥
तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभि: ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिद: शरा: ॥६१॥
हविरावर्जितं होतस्त्वया विधिवदग्निषु ।
वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम् ॥६२॥
पुरूषायुष्यजीविन्यो निरातङ्का निरीतय: ।
यन्मदीया: प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम् ॥६३॥
त्वयैवं चिन्त्यमानस्य गु,णा ब्रह्मयोनिना ।
सानुबन्धा: कथं न स्यु: संपदो मे निरापद: ॥६४॥
किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् ।
न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥६५॥
नूनं मत्त: परं वंश्या: पिण्डविच्छेददर्शिन: ।
न प्रकामभुज: श्राद्धे स्वधासंग्रहतत्परा: ॥६६॥
मत्परं दुर्लभं मत्वा नूनमावर्जितं मया ।
पय: पूर्वै: स्वनि:श्वासै: कवोष्णमुपभुज्यते ॥६७॥
सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलित: ।
प्रकाशश्चाप्रकाशश्च लोकालोक इवाचल: ॥६८॥
लोकान्तरसुखं पुण्यं तपोदानसमु»वम् ।
संतति: शुद्धवंश्या हि परत्रेह च शर्मणे ॥६९॥
तया हीनं विधातर्मां कथं पश्यन्न दूयसे ।
सिक्तं स्वयमिव स्नेहाद्वन्ध्यमाश्रमवृक्षकम् ॥७०॥
असÊपीडं भगवनृणमन्त्यमवेहि मे ।
अन्तुदमिवालानमनिर्वाणस्य दन्तिन: ॥७१॥
तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धय: ॥७२॥
इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचन: ।
क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव हृद: ॥७३॥
सोऽपश्यत्प्रणिधानेन सन्तते: स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत् ॥७४॥
पुरा शक्रमुपस्थाय तवोर्वीं प्रति यास्यत: ।
आसीत्कल्पत,च्छायामाश्रिता सुरभि: पथि ॥७५॥
धर्मलोपभयाद्राज्ञीमृतुस्नातामनुस्मरन् ।
प्रदक्षिणक्रियार्हायां तस्यां त्वं साधु नाचर: ॥७६॥
अवजानासि मां यस्मादतस्ते नाभविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा ॥७७॥
स शापो न त्वया राजन्न च सारथिना श्रुत: ।
नदत्याकाशगङ्गाया: स्रोतस्युद्धामदिग्गजे ॥७८॥
ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मन: ।
प्रतिबघ्नाति हि श्रेय: पूज्यपूजाव्यतिक्रम: ॥७९॥
हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतस: ।
भुजङ्गपिहितद्वारं पातालमधितिष्ठति ॥८०॥
सुतां तदीयां सुरभे: कृत्वा प्रतिनिधिं शुचि: ।
आराधय सपत्नीक: प्रीता कामदुघा हि सा ॥८१॥
इति वादिन एवास्य होतुराहुतिसाधनम् ।
अनिन्द्या नंदिनी नाम धेनुराववृते वनात् ॥८२॥
ललाटोदयमाभुग्नं पल्लवस्निग्धपाटला ।
बिभ्रती श्वेतरोमाङ्कं सन्ध्येव शशिनं नवम् ॥८३॥
भुवं कोष्णेन कुण्डोघ्नी मेध्येनावभृथादपि ।
प्रस्नवेणाभिवर्षन्ती वत्सालोकप्रवर्तिना ॥८४॥
रज:कणै: खुरोद्धूतै: स्पृशद्भिर्गात्रमन्तिकात् ।
तीर्थाभिषेकजां शुद्धिमादधाना महीक्षित: ॥८५॥
तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधि: ।
याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत् ॥८६॥
अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मन: ।
उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥८७॥
वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम् ।
विद्यामभ्यसनेनेव प्रसादयितुमर्हसि ॥८८॥
प्रस्थितायां प्रतिष्ठेथा: स्थितायां स्थितिमाचरे: ।
निषिण्णायां निषीदास्यां पीताम्भसि पिबेरप: ॥८९॥
वधूर्भक्तिमती चैनामर्चितामा तपोवनात् ।
प्रयता प्रातरन्वेतु सायं प्रत्युद्व्रजेदपि ॥९०॥
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव ।
अविघ्नमस्तु ते स्थेया: पितेव धुरि पुत्रिणाम् ॥९१॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रह: ।
आदेशं देशकालज्ञ: शिष्य: शासितुरानत: ॥९२॥
अथ प्रदोषे दोषज्ञ: संवेशाय विशांपतिम् ।
सूनु: सूनृवाक्स्त्रष्टुर्विससर्जोर्जितश्रियम् ॥९३॥
सत्यामपि तप:सिद्धौ नियमापेक्षया मुनि: ।
कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥९४॥
निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीय: ।
तच्छिष्याध्यननिवेदितावसानां संविष्ट: कुशशयने निशां निनाय ॥९५॥
॥ इति श्रीमत्कालिदासकृते रघुवंशे महाकाव्ये प्रथम: सर्ग: ॥
Tuesday, June 21, 2022
अनुभवा पेक्षा कष्ट श्रेष्ठ ठरले...!!
लक्ष्यवेध संस्कृत अकॅडमीचा २०२२ चा निकाल , नांदेड शहरातील सर्व सिडको हडको वासियांना दीर्घकाळापर्यंत लक्षात राहील... कारण लक्ष्यवेध च्या विद्यार्थ्यांनी अनेक दशक जुन्या असलेल्या आणि भरमसाठ विद्यार्थी संख्याअसलेल्या क्लास पेक्षा मोठा निकाल दिला आहे.... लक्ष्यवेध ला साल २०२१ -२०२२ मध्ये वर्ग १० वी ला केवळ ३४ चविद्यार्थी होते त्यातील १३ विद्यार्थ्यांनी १०० पैकी १०० गुण घेऊन एक नवीन विक्रम नोंदवला आहे. त्यामुळे लक्ष्यवेध संस्कृत अकॅडमी चे संचालक श्री संदीप पईतवार सर यांनी सर्व १०० गुण प्राप्त विद्यार्थ्यांचा पुष्पगुच्छ, हार, मिठाई व १ चांदीचे नाणे देऊन सत्कार केला, त्या आनंदीक्षणाची ही चित्रे...
सर्व १०० गुण प्राप्त विद्यार्थ्यांचा पुष्पगुच्छ, हार, मिठाई व १ चांदीचे नाणे देऊन सत्कार करण्यात आला.
अंकिता काळे (१०० गुण) चा सत्कार करताना पईतवार सरभक्ती सोमावार(९९ गुण) चा सत्कार करताना पईतवार सर
प्रगती इनामदार (९५ गुण) चा सत्कार करताना पईतवार सर
अतिशय आनंदाच्या वातावरणात हा कार्यक्रम दिनांक १८/०६/२०२२, रोजी संपन्न झाला. या वेळी सर्व उपस्थित विद्यार्थी शिक्षक आणि पालकांसाठी अल्पोपहाराची व्यवस्था क्लास कडून करण्यात आली होती.
Saturday, June 11, 2022
Friday, May 6, 2022
दशमी कक्षा आमोदः| सूक्तिसुधा| प्रश्नोत्तराणि|
दशमी कक्षा|
संपूर्णः|
तृतीयः
पाठः|
सूक्तिसुधा|
==श्लोक १.==
अन्वयं पूरयत|
अन्वय :-विद्या नाम नरस्य अधिकं रूपम् , प्रच्छन्नगुप्तं धनम् ,विद्या भोगकरी यशःसुखकरी (च) |विद्या
गुरुणां गुरुः |विदेशगमने विद्या बन्धुजनः |विद्या परं दैवतम् | विद्या परं दैवतम्
|विद्या राजसु पूज्यते न तु धनम् | विद्याविहीनः पशुः (एव) |
---------------------------------
१. एकवाक्येन उत्तरत |
१) का गुरूणां गुरुः?
-> विद्या गुरूणां गुरुः |
२) किं राजसु न पूज्यते?
-> किं राजसु न पूज्यते|
३) कः पशुः एव?
->विद्या विहीनः पशुः एव |
४) का भोगकरी?
->विद्या भोगकरी |
५) अस्मिन् श्लोके कस्याः महत्त्वं वर्णितम्?
-> अस्मिन् श्लोके विद्यायाः महत्त्वं वर्णितम् |
---------------------------------
२. जालरेखचित्रं पूरयत |
(धनम् , गुरुः , दैवतम् , रूपम्)
--------------------------------
३. समासाः |
१)विद्याविहीनः
–विद्यया विहीनः –तृतीया तत्पुरुष|
२)विदेशगमनम्
–विदेशं गमनम् –द्वितीया तत्पुरुष |
३)सूक्तिसुधा
–सूक्तिः सुधा इव –कर्मधारय |
---------------------------------
४. समानार्थकशब्दाः |
१)विद्या = ज्ञानम् |
२)नरः = मनुष्यः |
३)यशः = कीर्तिः |
४)गुरुः = आचार्यः |
५)परम् = श्रेष्ठम् |
६)धनम् = वित्तम् |
---------------------------------
५. विरुद्धार्थकशब्दाः |
१)विद्या X अविद्या |
२)अधिकम् X न्यूनम् |
३)यशः X अपयशः |
४)विदेशम् X स्वदेशम् |
५)परम् X कनिष्ठम् |
---------------------------------
६. सन्धिविग्रहः |
१)रूपमधिकम् =रूपम्+अधिकम् |
२)बन्धुजनो विदेशगमने =
बन्धुजनः+विदेशगमने |
---------------------------------
७. माध्यमभाषया उत्तरत |
१)विद्या नाम नरस्य ... इति
श्लोकाधरेण विद्यायाः महत्त्वं लिखत |
->
सूक्तिः म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या
लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य वाढते.
विद्या नाम नरस्य या श्लोकात
श्लोक काराने विद्येचे महत्त्व सांगितले आहे विद्या हे मनुष्याचे अधिकचे रूप आहे
लपवून ठेवलेले गुप्त धन आहे विद्याही भोग आणि यश मिळवून देणारी आहे गुरूंची ही
गुरु असलेली ही विद्या आपण विदेशात गेलो असता बंधू चे कार्य करते हे सर्व श्रेष्ठ
दैवत आहे अशीही विद्या राजे लोकांकडून पुजली जाते म्हणून विद्या नसलेला मनुष्य पशुप्रमाणेच
असतो
वरील प्रमाणे विद्येचे महत्त्व
श्लोककाराने सांगितले आहे. विद्या किती महत्त्वाची आहे हे आपल्याला या श्लोकातून
कळते.
---------------------------------
==श्लोकः २.==
अन्वय :-यदि (अपि) नीतिनिपुणाःनिन्दन्तु स्तुवन्तु वा , लक्ष्मीः समाविशतु यथेष्टंगच्छतु
वा , मरणम् अद्य एव अस्तु युगान्तरे वा , (तथापि) धीराः न्याय्यात् पथः पदं न
प्रविचलन्ति |
---------------------------------
१. एकवाक्येन उत्तरत |
१)के निन्दन्तु स्तुवन्तु वा ?
->नीतिनिपुणाः निन्दन्तु स्तुवन्तु वा |
२)का यथेष्टं गच्छतु समाविशतु वा ?
-> लक्ष्मीः यथेष्टं गच्छतु समाविशतु वा |
३)के न्याय्यात्पथः पदं न प्रविचलन्ति ?
-> धराः न्याय्यात्पथः पदं न प्रविचलन्ति |
---------------------------------
२. जालरेखाचित्रं पूरयत |
नीतिनिपुणाः |
निन्दन्तु |
स्तुवन्तु |
वा |
लक्ष्मीः |
समाविशतु |
गच्छतु |
वा |
मरणम् |
अद्यैव |
युगान्तरे |
वा |
---------------------------------
३. समासाः |
१)नीतिनिपुणाः
–नीतिषु निपुणाः –सप्तमी तत्पुरुष |
२)यथेष्टम्
–इष्टम् अनुसृत्य –अव्ययीभावः |
---------------------------------
४. समानार्थकशब्दाः |
१)लक्ष्मीः = श्रीः |
२)निपुणः =प्रवीणः |
३)स्तुवन्तु =शंसन्तु |
४)गच्छतु = यातु |
५)मरणम् =मृत्युः |
६)पदम् =चरणम् |
---------------------------------
५. विरुद्धार्थकशब्दाः |
१)इष्टम् X अनिष्टम् |
२)निन्दन्तु X स्तुवन्तु |
३)गच्छतु X आगच्छतु |
४)मरणम् X जीवनम् |
५)धीराः X नीचाः |
---------------------------------
६. सन्धिविग्रहः |
१)नीतिनिपुणा यदि =नीतिनिपुणाः+यदि |
२)अद्यैव =अद्य+एव |
३)मरणमस्तु =मरणम्+अस्तु |
४)न्याय्यात्पथः =न्यय्यात्+पथः |
---------------------------------
७. माध्यमभाषया उत्तरत |
“न्याय्यात्पथः प्रविचलन्ति पदं न धीराः|” इति सूक्तिं स्पष्टीकुरुत|
-> सूक्तिः
म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण
होतो व वाक्चातुर्य वाढते.
श्रेष्ठ लोक कधीही न्याय्यमार्गाचा
त्याग करत नाहीत जरी नीतीत निपुण असलेले लोक त्यांची निंदा करत किंवा स्तुती करत
लक्ष्मी अर्थात धनसंपत्ती राहो किंवा निघून जावो मृत्यू आजच असो व दीर्घ काळानंतर
असो अशा कोणत्याही परिस्थितीत श्रेष्ठ लोक न्याय मार्गाचा त्याग करत नाहीत हेच या
श्लोकातून आपल्याला कळते.
या श्लोकातून श्रेष्ठ लोकांना कितीही अडचणी
आल्या तरीही ते योग्य अर्थात न्याय्य मार्गाचा त्याग करत नाहीत हे स्पष्ट केलेले
आहे
---------------------------------
==श्लोकः ३.==
अन्वय :- शुकसारिकाः आत्मनः मुखदोषेण बध्यन्ते | तत्र बकाः न बध्यन्ते |(यतः) मौनं सर्वार्थसाधनम् |
---------------------------------
१. पूर्णवाक्येन उत्तरत |
१)शुकसारिकाः केन बध्यन्ते ?
->शुकसारिकाः आत्मनः मुखदोषेण बध्यन्ते |
२)के न बध्यन्ते ?
->बकाः न बध्यन्ते |
३)किं सर्वार्थसाधनम् ?
->मौनं सर्वार्थसाधनम् |
---------------------------------
२. श्लोकात् शब्दं चित्वा लिखत |
१)प्रथमान्त पदं लिखत |
->शुकसारिकाः ,बकाः |
२)षष्ठ्यन्तं पदं लिखत |
->आत्मनः |
३)तृतीयान्तं पदं लिखत |
->मुखदोषेण |
---------------------------------
३. समासाः |
१)शुकसारिकाः
–शुकाः च सारिकाः च –इतरेत्तर द्वन्द्वः |
२)मुखदोषः
–मुखस्य दोषः
–षष्ठी तत्पुरुष |
---------------------------------
४. समानार्थकशब्दाः |
१)आत्मनः =स्वस्यम् |
२)मुखम् =वक्त्रम् |
३)शुकः =कीरः |
४)साधनम् = करणम् |
---------------------------------
५. विरुद्धर्थकशब्दाः |
१)दोषाः X सदगुणाः |
२)आत्मनः X परस्य |
---------------------------------
६. सन्धिविग्रहः |
१)आत्मनो मुखदोषेण =आत्मनः+मुखदोषेण |
२)बकास्तत्र =बकाः+तत्र |
---------------------------------
==श्लोक ४.==
|
---------------------------------
१. पूर्णवाक्येन उत्तरत |
१)कस्य एकं चक्रम् ?
->रवेः रथस्य एकं चक्रम् |
२)सप्त तुरगाः कीदृशाः ?
->सप्त भुजगयमिताः तुरगाः |
३)रवेः रथस्य कति तुरगाः ?
->रवेः रथस्य सप्त तुरगाः |
४)रवेः सारथिः कीदृशः अस्ति ?
-> रवेः सारथिः चरणविकालः अस्ति |
५)केषां क्रियासिद्धिः सत्त्वे भवति ?
->महतां क्रियासिद्धिः सत्त्वे भवति |
---------------------------------
२. तालिकां पूरयत |
निरालम्बः |
मार्गः |
सप्त |
तुरगाः |
चरणविकलः |
सारथिः |
एकम् |
चक्रम् |
---------------------------------
(रथस्य एकं चक्रम्| , निरालम्बः
मार्गः | भुजगयमिताः सप्त तुरगाः| चरणविकलः सारथिः| )
---------------------------------
४. समासाः |
१)भुजगयमिताः
-भुजगैः यमिताः –तृतीया तत्पुरुष |
२)चरणविकलः
-चरणाभ्यां विकलः –तृतीया तत्पुरुष |
३)प्रतिदिनम्
–दिने दिने –अव्ययीभावः |
४)क्रियासिद्धिः
–क्रियायाः सिद्धिः –षष्ठी तत्पुरुष |
---------------------------------
५. समानार्थकशब्दाः |
१)रथः –स्यन्दनः |
२)चक्रम् –चाकाः ,कटकम् |
३)भुजगः –सर्पः |
४)तुरगः –अश्वः |
५)मार्गः –वर्त्म |
६)यमिताः –नियन्त्रिताः |
७)चरणम् –पादः |
८)प्रतिदिनम् –प्रत्यहम् |
९)रविः –सूर्यः |
१०)निराधारः –निरालम्बः |
११)नभः –आकाशः |
१२)सारथिः –सूतः |
१३)महताम् –धीराणाम् |
१४)सत्त्वे –पराक्रमे |
१५)उपकारणम् –साधनम् |
१६)याति –गच्छति |
---------------------------------
६. विरुद्धार्थकशब्दाः |
१)याति X गच्छति |
२)यमिताः X अनियन्त्रिताः |
३)निरालम्बः X सालम्बः |
---------------------------------
७. सन्धिविग्रहः |
१)रथस्यैकम् =रथस्य+एकम् |
२)मार्गश्चरणविकलः =मार्गः+चरणविकलः |
३)सारथिरपि =सारथिः+अपि |
४)रविर्यात्येवान्तम् =रविः+याति+एव+अन्तम् |
५)प्रतिदिनमपारस्य =प्रतिदिनम्+अपारस्य |
६)नोपकरणे =न+उपकरणे |
---------------------------------
८. माध्यमभाषया उत्तरत |
“क्रियासिद्धिः सत्त्वे भवति” इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत|
सूक्तिः
म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो
व वाक्चातुर्य वाढते.
श्रेष्ठ लोकांची क्रिया सिद्धी
म्हणजे त्यांची कार्य करण्याची क्षमता त्यांच्या पराक्रमावर अवलंबून असते उपकरणावर
नाही, या वाक्याचे स्पष्टीकरण देत असताना श्लोककार म्हणतो की, सूर्याच्या रथाला
एकच चाक आहे , सूर्याच्या रथाला असलेले सात घोडे सापांनी नियंत्रित केलेले आहेत,
त्याचा मार्ग सुद्धा निराधार आहे आणि सूर्याचा सारथी अरुण हा पायांनी पांगळा किंवा
चरणविकल आहे अशा अनेक अडचणी मधून सुद्धा सूर्य दररोज आकाशाच्या एका टोकापासून
दुसऱ्या टोकापर्यंत जातोच, कारण सूर्याची क्रियासिद्धि त्याच्या पराक्रमावर
अवलंबून असते, उपकरणावर नाही.
वरील स्पष्टीकरणातून मनुष्याने
क्रियासिद्धीसाठी स्वपराक्रमावर अवलंबून रहावे कोणत्याही साधनांवर किंवा उपकरणावर
नाही हे लेखक सांगू इच्छितो.
---------------------------------
==श्लोकः ५.==
अन्वय :- अल्पानां _____ अपि _____ कार्यसाधिका (विद्यते) |(यथा) _____
आपन्नैः तृणैः _____ बध्यन्ते |
(वस्तूनाम् , संहतिः , गुणत्वम् , मत्तदन्तिनः)
१. पूर्णवाक्येन उत्तरत |
१)का कार्यसाधिका भवति ?
->संहतिः कार्यसाधिका भवति |
२)कैः मत्तदन्तिनः बध्यन्ते ?
->गुणत्वम् आपन्नैः तृणैः मत्तदन्तिनः बध्यन्ते |
---------------------------------
२. श्लोकात् शब्दं चित्वा लिखत |
१)प्रथमान्तं पदं लिखत |
->कार्यसाधिका ,मत्तदन्तिनः |
२)षष्ठ्यन्तं पदं लिखत |
->अल्पानाम् ,वस्तूनाम् |
३)तृतीयान्तं पदं लिखत |
->आपन्नैः ,तृणैः |
---------------------------------
३. समासाः |
१)मत्तदन्तिनः
–मत्ताः
दन्तिनः –कर्मधारय |
---------------------------------
४. समानार्थकशब्दाः |
१)दन्तिनः –गजाः |
२)अल्पम् –स्तोकम् |
३)संहतिः –समूहः |
४)तृणम् –शष्पम् |
५)गुणः –रज्जुः |
---------------------------------
५. विरुद्धार्थकशब्दाः |
१)अल्पम् X भूरि |
---------------------------------
६. सन्धिविग्रहः |
१)अल्पानामपि =अल्पानाम्+अपि |
२)तृणैर्गुणत्वमापन्नैर्बध्यन्ते
=तृणैः+गुणत्वम्+आपन्नैः+बध्यन्ते
|
---------------------------------
७. माध्यमभाषया
उत्तरत |
“संहतिः कार्यसाधिका “ इति उक्तिं स्पष्टीकुरुत|
सूक्तिः
म्हणजे सुवचने होत त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण
होतो व वाक्चातुर्य वाढते.
एकजुटीचे
महत्त्व सांगण्यासाठी हा श्लोक अतिशय महत्त्वाचा आहे, छोट्या छोट्या गोष्टींचा
संग्रह मोठी मोठी कार्य पूर्णत्वास नेतो प्रस्तुत श्लोकात याचे स्पष्टीकरण करत
असताना श्लोककार म्हणतो की, सामान्य अशा गवतापासून तयार झालेल्या दोरीने मत्त
(माजलेले) हत्ती सुद्धा बांधले जातात, म्हणजेच नियंत्रित केले जातात प्रथम स्वरूपी
पाहता गवत हे सहज सुटण्यासारखे असते पण त्याच गवताला एकत्र करून दोरी बनविल्यास ती
अतिशय मजबूत होते. माजलेले हत्ती हे अतिशय शक्तिशाली असतात तरीही सामान्य गवता
पासून तयार केलेली दोरी तशात त्यांना नियंत्रित करण्यास सक्षम असते.
या श्लोकातून एकतेचे, एकजुटीचे महत्त्व सांगितले
आहे. आपल्याला आपल्या जीवनभर उपयोगी पडणारे हे ज्ञान आहे.
---------------------------------
==श्लोक ६.==
अन्वय :-प्रथमवयसि पीतम् अल्पं तोयं स्मरन्तः शिरसि निहितभाराः नारिकेलाः आजीवितान्तं नराणां (नरेभ्यः) अनल्पास्वादं जलं ददति | साधवः कृतम् उपकारं न हि विस्मरन्ति |
--------------------------------
१. पूर्णवाक्येन उत्तरत |
१)नारिकेलाः किं स्मरन्ति ?
->नारिकेलाः प्रथमवयसि पीतम् अल्पं तोयं स्मरन्ति |
२)साधवः किं न विस्मरन्ति ?
->साधवः कृतम् उपकारं न विस्मरन्ति |
३)नारिकेलाः भारं कुत्र वहन्ति ?
->नारिकेलाः भारं शिरसि वहन्ति |
४)नारिकेलाः नराणां किं ददति ?
->नारिकेलाः नराणाम् अनाल्पास्वादं जलं ददति|
५)जलं कीदृशम् ?
->जलम् अनल्पास्वादम् |
---------------------------------
२. श्लोकात् शब्दं चित्वा लिखत |
१)प्रथमान्त पदं लिखत |
->नारिकेलाः |
२) षष्ठ्यन्तं पदं लिखत |
->नराणाम् |
३)सप्तम्यन्तं पदं लिखत |
->शिरसि |
---------------------------------
३. समासाः |
१)प्रथमवयसि
–प्रथमे वयसि –कर्मधारय |
२)निहितभाराः
–निहिताः भाराः –कर्मधारय |
---------------------------------
४. समानार्थकशब्दाः |
१)तोयम् –जलम् |
२)अल्पम् –स्तोकम् |
३)शिरसि –मस्तके |
४)भारः –गुरुत्वम् |
५)स्वाद: –रुचिः |
६)साधवः –सन्तः |
७)नरः –मनुष्यः |
---------------------------------
५. विरुद्धार्थकशब्दाः |
१)अनल्पम् X अल्पम् |
२)उपकारम् X अपकारम् |
३)साधवः X दुर्जना |
४)विस्मरन्ति X स्मरन्ति |
---------------------------------
६. सन्धिविग्रहः |
१)तोयमल्पम् =तोयम्+अल्पम् |
२)कृतमुपकारम् =कृतम्+उपकारम् |
३)साधवो विस्मरन्ति =साधवः+विस्मरन्ति |
४)जलमनल्पास्वादमाजीवितान्तम्
=जलम्+अनल्पास्वादम्+आजीवितान्तम्|
५)निहितभारा नारिकेला नराणाम्
=निहितभाराः+ नारिकेलाः+ नराणाम् |
---------------------------------
७. माध्यमभाषया
उत्तरत |
नारिकेलाः नराणाम् उपकारम् कथं स्मरन्ति?
सूक्तिः म्हणजे सुवचने होत
त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य
वाढते.
श्रेष्ठ लोक केलेले उपकार कधीही
विसरत नाहीत या वाक्याचे स्पष्टीकरण देत असताना लोक काराने नारळाच्या झाडाचे
उदाहरण दिलेले आहे नारळाचे झाड आहे त्याला लहानपणी दिलेल्या थोड्याशा पाण्याची
आठवण ठेवतो आणि त्याचे जीवन असेपर्यंत डोक्यावर नारळ स्वरूपी भार धारण करते आणि
त्या नारळातील अतिशय चविष्ट असे पाणी लोकांना देतो लहानपणी केलेल्या थोड्याशा
पाण्याच्या उपकाराची जाणीव ठेवत आयुष्यभर लोकांना त्या उपकाराची परतफेड करण्यासाठी
चविष्ट असे पाणी देत राहणारा ते नारळाचे झाड. मनुष्याने सुद्धा आपल्यावर केलेले
उपकार नेहमीच लक्षात ठेवावेत.
आपल्या निसर्गातून अनेक उपदेश मिळतात जगण्यासाठी
आवश्यक मार्गदर्शनही मिळते नारळाचे झाड आपल्याला आपल्यावर केलेल्या झालेल्या उपकार
न विसरता त्याची परतफेड करावी असा उपदेश करतो.
---------------------------------
==श्लोक ७.==
अन्वय :-पुरुषः घटं भिन्द्यात् , पटं छिन्द्यात् , रासभरोहणं (अपि) कुर्यात् |
येन केन प्रकारेण (सः) प्रसिद्धः भवेत्
|
--------------------------------
१.पूर्णवाक्येन उत्तरत |
१)मनुष्यः किं भिन्द्यात् ?
->मनुष्यः घटं भिन्द्यात् |
२)मनुष्यः किं छिन्द्यात् ?
->मनुष्यः पटं छिन्द्यात् |
३)मनुष्यः कीदृशः भवेत् इति कवि वदति ?
->मनुष्यः प्रसिद्धः भवेत् इति कवि वदति |
४)श्लोके आगतं क्रियापदं लिखत ?
->भिन्द्यात् ,छिन्द्यात् ,कुर्यात् ,भवेत् |
---------------------------------
२. श्लोकात् शब्दं चित्वा लिखत |
१)प्रथमान्तं पदं लिखत |
->प्रसिद्धः , पुरुषः|
२)द्वितीयान्तं पदं लिखत |
->घटम् , पटम् , रासभरोहणम्|
३)तृतीयान्तं पदं लिखत |
->येन , केन , प्रकारेण |
---------------------------------
३. समानार्थकशब्दाः |
१)पुरुषः -मनुष्यः |
२)पटम् –वस्त्रम् |
३)रासभः –गर्दभः |
४)प्रसिद्धः –कीर्तिमान् |
---------------------------------
४. सन्धिविग्रहः |
१)कुर्याद्रासभरोहणम् =कुर्यात्+रासभरोहणम् |
२)पुरुषो भवेत् =पुरुषः+भवेत् |
---------------------------------
५. माध्यमभाषया
उत्तरत |
“येन केन प्रकारेण” इति उक्तिं स्पष्टीकुरुत|
सूक्तिः म्हणजे सुवचने होत
त्यांचा वापर केल्यास आपल्या लेखणीत व भाषणात प्रभाव निर्माण होतो व वाक्चातुर्य
वाढते.
येन केन
प्रकारेण या सूक्तिचे स्पष्टीकरण करत असताना श्लोककाराने मनुष्याला प्रसिद्ध
होण्याबाबत सांगितले आहे ‘येन केन प्रकारेण’ म्हणजे कोणत्याही परिस्थितीत
कोणत्याही पद्धतीने होय, श्लोककार म्हणतो मनुष्याने प्रसिद्ध होण्यासाठी घडा
फोडावा, कपडे पाडावेत, शेवटी गाढवावरही बसावे पण कोणत्याही परिस्थितीत प्रसिद्ध
मात्र व्हावेच, खरे तर ही हास्योक्ती आहे, प्रसिद्ध होण्यासाठी वरील
मार्गाचा अवलंब केला असता हास्यास्पद ठरेल.
प्रस्तुत
श्लोक वाचत असताना मात्र हास्योक्तीची सार्थकता होते
आणि ओठावर हसू उमटतेच.
---------------------------------
या पुढील पाठांच्या उत्तरांसाठी कृपया आमच्या या Blog ला Follow करा.